Professional Documents
Culture Documents
॥ नीलमेघस्तुतिः ॥
.. Nilamegha Stuti ..
sanskritdocuments.org
August 20, 2017
.. Nilamegha Stuti ..
॥ नीलमेघस्तुतिः ॥
Category : hanumaana
Location : doc_hanumaana
Language : Sanskrit
Subject : philosophy/hinduism/religion
This text is prepared by volunteers and is to be used for personal study and
research. The file is not to be copied or reposted without permission, for
promotion of any website or individuals or for commercial purpose.
sanskritdocuments.org
॥ नीलमेघस्तुतिः ॥
॥ नीलमेघस्तुतिः ॥
सच्चिदानन्दरूपाय सृष्टिस्थित्यन्तकारिणे ।
चराचरस्वरूपाय पुराणपुरुषाय च ॥ १॥
नमो लोकशरण्याय दीनसंरक्षणाय च ।
भक्तपालनरूपाय आपन्नार्तिहराय च ॥ २॥
त्वत्पाददर्शनाद्दुःखमशेषं नः प्रणश्यतु ।
अनेकजन्मसाहस्त्रैः सम्भृतं पुण्यमस्ति मे ॥ ३॥
नचेत्कथं त्वदीयाङ्घ्रिदर्शनं स्यादहैतुकम्।
आगामि श्रेयसो हेतुर्वर्तमानाघशोधकम्।
पूर्वपुण्यार्जितं कस्य नाशास्यं तव दर्शनम्॥ ४॥
अद्य मे सफलं जन्म भवत्पादाब्जवन्दनात्।
कृतार्थाः पितरस्सर्वे मम वंशसमुद्भवाः ॥ ५॥
फलिताः क्त्रतवो नूनं विप्राः सत्याशिषोऽभवन्।
यथार्थो जनवादश्च चिराय भविता मम ॥ ६॥
अपि जन्तुर्महद्दुःखी जीवन्भद्राणि पश्यति ॥ ७॥
मैरावणोऽपि दुष्टात्मा मातुलो मम निर्दयः ।
सद्गतिं प्राप्नुयात्सत्यमिति मे निश्चिता मतिः ॥ ८॥
आश्लिष्टसर्वगात्रोऽयं साक्षात्कृतपदद्वयः ।
त्वत्पादघातसम्मृष्टः हृतप्राणसमीरणः ॥ ९॥
एवं विधः कथं स्वामिन्न मुच्येत भवाम्बुधेः ।
अन्यथा कथमन्येषां मुक्त्याशा भजतामपि ॥ १०॥
अद्य प्रभृति नः स्वामिन्भूयाद्भक्तिः पदाब्जयोः ।
धर्मार्थकाममोक्षाणां इयमेव प्रसूर्मम ॥ ११॥
इति नीलमेघस्तुतिः समाप्ता ।
Encoded by Gopal Upadhyay gopal.j.upadhyay at gmail.com
nIlameghastuti.pdf 1
॥ नीलमेघस्तुतिः ॥
.. Nilamegha Stuti ..
Searchable pdf was typeset using XeTeXgenerateactualtext feature of XƎLATEX 0.99996
on August 20, 2017
2 sanskritdocuments.org